________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनस्तुतिसदानवसुराजिता असमराजिनाभीरदा, क्रियासुरुचितासु ते सकलभा रतीरायताः ॥ ५० ॥
पृथ्वीछन्दः। (११)
श्रीचक्रधरायाः स्तुतिः। याऽत्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुतात्
— समतनुभागविकृतधीरसमदवैरिव धामहारिभिः । तडिदिव भाति सान्ध्यघनमूर्धनि चक्रधराऽस्तु सा मुदेऽसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः ॥ ७२ ॥
द्विपदीछन्दः । (१२) श्रीकपर्दियक्षराजस्मृतिः। द्विपं गतो हृदि रमतां दमश्रिया
प्रभाति मे चकितहरिद्विपं नगे। वटाह्वये कृतवसतिश्च यक्षराट् प्रभातिमेचकितहरिद् विपन्नगे ।। ७६ ।।
रुचिराछन्दः । ( १३ )
श्रीगोरीदेव्याः स्तुतिः। अधिगतगोधिका कनकरुकू तव गौर्युचिता
कमलकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती
कमलकरा जितामरसभाऽस्यतु लोपकृतम् ॥ ८० ॥
तत्कुटकवृत्तम् ।
For Private And Personal Use Only