________________
Shri Mahavir Jain Aradhana Kendra
विशिष्ठपद्यानिः
www.kobatirth.org
(७)
सिद्धान्तस्तुतिः ।
सिद्धान्तः स्ताद् अहितहतयेऽख्यापयद् यं जिनेन्द्रः सद्राजीवः स विधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रयणचुलुकैर्यं च मोदादू विहायःसद्राजी वः सकविधिषणाऽपादनेकोपमानः ॥ ३१ ॥
मन्दाक्रान्ता |
(<)
श्रीजिनेन्द्राणां स्तुतिः ।
जिनवरत तिर्जीवालीनामकारणवत्सलाऽ
Acharya Shri Kailassagarsuri Gyanmandir
समदमहिताऽमारा दिष्टासमानवराऽजया ।
नमदमृतभुक्पङ्कत्या नूता तनोतु मतिं ममाऽ
समदमहितामारादिष्टा समानवराजया ॥ ४२ ॥
हरिणीछन्दः ।
( ९ ) जिनभारत्याः स्वरूपम् ।
नित्यं हेतूपपत्तिप्रतिहत कुमतप्रोद्धतध्वान्तबन्धाsपापायाssसाद्यमानाऽमदन ! तव सुधासारहृद्या हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान् मेSपापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि ॥ ४७||
स्रग्धरावृत्तम् ।
(१० ) समस्तजिनवराणां स्तुतिः ।
सदानवसुराजिता असमरा जिना भीरदाः, क्रियासु रुचितासु ते सकलभारतीरा यताः ।
For Private And Personal Use Only