________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
तिलकमञ्जरीअमनोहरं गद्यं निर्दिशति--
अखण्डदण्डकारण्य-भाजः प्रचुरवर्णकात् । व्याघ्रादिव भयाघ्रातो-गद्याद् व्यावर्त्तते जनः ॥ १५ ॥ वर्णयुक्तिं दधानाऽपि-स्निग्धाञ्जनमनोहराम् । नातिश्लेषघना श्लाघां, कृतिलिपिरिवाश्रुते ॥ १६ ॥ अश्रान्तगद्यसन्ताना, श्रोतृणां निर्विदे कथा। जहाति पद्यप्रचुरा, चम्पूरपि कथारसम् ॥ १७ ।। सत्कथारसवन्ध्येषु, निबन्धेषु नियोजिताः । नीचेष्विव भवन्त्यर्थाः, प्रायो वैरस्य हेतवः ॥ १८ ॥ नमो जगन्नमस्याय, मुनीन्द्रायेन्द्रभूतये यः प्राप्य त्रिपदी वाचा, विश्वं विष्णुरिवानशे ॥ १९ ॥ प्रस्तावनादिपुरुषौ, रघुकौरववंशयोः । वन्दे वाल्मीकिकानीनौ, सूर्याचन्द्रमसाविव ॥ २० ॥ सत्यं बृहत्कथाम्भोधे-बिन्दुमादाय संस्कृताः । तेनेतरकथाः कन्थाः, प्रतिभान्ति तदप्रतः ॥ २१ ॥ जितं प्रवरसेनेन, रामेणेव महात्मना । तरत्युपरि यत्कीर्तिः, सेतुर्वाङ्मयवारिधेः ॥२२॥ प्रसन्नगम्भीरपथा, रथाङ्गमिथुनाश्रया । पुण्या पुनाति गङ्गेव, गां तरङ्गवती कथा ॥ २३ ॥
१ दण्डकः छन्दो-विशेषः पक्षे दण्डकनामाऽरण्यम् । २ वर्णाः कादयः, पीतादयश्च । ३ स्निग्धामिति भिन्नं पदं रसयुक्ता, स्निग्धेनाजनेन मनोहराम् । ४ उद्वेगाय । ५ विरसत्त्वं, विद्वेषस्येति पृथक्पदम् । ६ जीर्णवसनखण्डानि । ..७ पादलिप्ताचार्यनिर्मितयं तरङ्गवती कथा विद्यते । यतः-निर्वाणकलिका काल-ज्ञानप्रश्नप्रकाशकः । तरङ्गवतीत्यायुल्लेखात् ।।
विद्यमानसमयोऽस्य सूरेर्विक्रमसवषट्क्षष्ट्यधिकशतद्वयप्रमितः, दीक्षासमयश्च
For Private And Personal Use Only