________________
Shri Mahavir Jain Aradhana Kendra
पीठिका.
"
www.kobatirth.org
"
येषां गिरः, यद्वाचः
व्याख्या- '
' मधुरत्वेन, ' स्वादुतां' स्वादुत्त्वं 'नीताः ' प्राप्ताः ' पशूनामपि दिवौकसामपि, ' मानसं चित्तं, 'न मदयन्ति' न मोदयन्ति, ' तेऽपि ' तथाविधा अपि, ' भुवि ' क्षितौ ' किं कवयः ' अर्थात् कवयो न भवन्ति । पक्षे - यन्नादाः, चैत्रेण स्वादुतां - स्वादुभावं गताः पशूनां - तिरश्चामपि मानसं न रञ्जयन्ति ते पिकवयः - कोकिलपक्षिणः किम् ॥ ११ ॥
"
6
Acharya Shri Kailassagarsuri Gyanmandir
संप्रति काव्यं समीक्षमाण आह
काव्यं तदपि किं वाच्य - मवोचि न करोति यत् । श्रुतमात्रममित्राणां वक्त्राणि च शिरांसि च
मधुना
"
"
उत्पतन्त्यजवद् व्योम्नि, केचित्प्राप्तपदत्रयाः । विशन्त्यन्ये प्रबन्धेऽपि, लब्धेबलिरिव क्षितिम् ॥ १३ ॥
व्याख्या -' केचित् ' कवयः प्राप्तं पदत्रयं स्त्याद्यन्तं यैस्ते तथाभूता; प्रमाणभूतं चरणत्रयं प्राप्य विष्णुवत् व्योम्नि- अम्बरे, उत्पतन्ति प्राप्नुवन्ति । अन्ये ऽपरे विबुधाः प्रबन्धे लब्धेऽपि, बलिरिव क्षितिं विशन्ति- बुद्धिरहितत्त्वात् ।
दुर्जनदशां दर्शयति
कषौश्मनेव श्यामेन मुखेनाधोमुखे क्षणः ।
काव्यम्नो गुणान् वक्ति, कलाद इव दुर्जनः ॥ १४ ॥
५३
॥ १२ ॥
३ पश्यतीति ( सर्वमविशेषेण - दृशेः कुप्रत्ययः ) पशुः । मृगादौ प्राणिनि प्रमथे, प्राणिमात्रे शिवात्मनि । यज्ञीयोदुम्बरे छागे, अजेऽपि पशुयज्ञके ॥१॥ शैवागमप्रसिद्धात्म - न्यग्नौ च चित्रपदपे । पशुर्मांसादिकेऽज्ञाने, पशुर्हव्यर्थमव्ययम्
॥२॥
For Private And Personal Use Only
इति शब्दसिन्धुः ।
२ वक्त्रविशेषणे - न विद्यते वाग् येषु तानि, अवाञ्चि-वचनरहितानि ! शिरोविशेषणे- अवाञ्चीति- अव - अधः अञ्चन्ति - अधोगतानि ।
३ कषपट्टेनेव ४ पश्यतोहरः ।