SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनाचार्य श्रीमद्अजित सागरसूरिवृत्तान्तम् । प्रणम्य पद्मप्रभपद्मनाथं, संक्षेपतोऽहं कथयामि किञ्चित् । गुरुप्रसादाद् गुरुजीवनस्य, शुभं चरित्रं गुणवृद्धिहेतुम् ॥ १ ॥ " विविधवैभवशालिनि चास्तर ( चरोतर ) देशे पेटलादपत्तनसन्निधौ प्रधानतो वैश्यजनमण्डितोऽन्वर्थनामा नार ( नरसमूह ) इत्यभिधानं दधानो ग्रामः प्रसिद्धः समस्ति । यस्मिन्वीतरागधर्मोपासकाः कियन्तः स्वष्टदेवता उपासते यैर्धर्मसन्तानकराः कतिपयाऽर्भकाः सद्गुरुभ्यः समर्पिताः, दीक्षिताश्च ते धर्मोन्नतिं विदधति, एतस्मिंश्च ग्रामे 'परमात्मिक धर्मनिष्ठो वैश्य ( लेउआपाटीदार ) कुलविभासकः (लल्लुभाइ ) इत्याख्याख्यापकोऽभवत्, धर्मपत्नी च तस्य शीलवतीनां प्रशंसनीया (सोनबाई ) नामाऽऽसीत्, दम्पती चोभौ समानशुभशीलौ विनीतस्वभावौ प्रभुभक्तिपरायणौ शुद्धदेवगुरुभक्तिभाजावुदारमानसौ प्रेमाङ्कुरपोषकौ सततं बभूवतुः । यस्याः कुक्षौ शुभस्वप्नसूचितोऽयं गर्भत्वेन समवातरत् । वि. सं. द्विचत्वारिंशदधिकैकोनविंशतितमे हायने पोपशुक्लपञ्चम्यां सा बालमजीजनत् द्वादशेऽह्नि पित्रा ( अंबालाल ) इत्यभिधान मकारि । क्रमेण बालशशाङ्क इव स वृद्धिमगमत् प्रकृत्यैवासौ निजपितृगुणानुसारी शुभलक्षणसूचितो भविष्यद्भाग्योदयवशात् सामुद्रिक लक्षणैः कियद्भिरुपलक्षितोऽभूत्, आद्यवयस्येव तं वाग्मित्वं बुद्धिवैशद्यञ्चाशिश्रियताम् । अत एवासाचिराद् गुर्जरगिरां रहस्यमवेदीत् । स च वाक्चातुर्यबुद्धिप्रभावं I For Private And Personal Use Only
SR No.008638
Book TitlePrastavana Trayi
Original Sutra AuthorN/A
AuthorShobhanmuni, Ajitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages102
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy