SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ ] [ शोभनस्तुते. (सदृशैः) पण्डितप्रवरैः शोभनस्तुतिमिमामनुसृत्य तथैवच्छन्दोऽलकारैः समलङ्कता (ऐन्द्रस्तुसिनामा) स्तुतिय॑धायि । यस्यां स्तुतौ शब्दतोऽर्थतश्च क्वचिद् साम्यं वरिवर्त्तते । प्रस्तुतस्तुतेरनन्तरं मेरुविजयगणिप्रभृतिजैनकविवरैरीदशीः स्तुतीविधाय साहित्यवृद्धिरक्रियत । अस्मिन् विषयेऽधिकमुल्लेखमकृत्वा स्तुतिरियमवेक्षणीयेति विरम्यते । अस्याः स्तुतेः सुबोधाय-आचार्यश्रीमद्अजितसागरसूरिविरचितसरलाख्या टीकाऽन्वयानुसारिणी मूलार्थानुवादश्च वाचकानामतीव साहाय्यं ब्रजिष्यतः। सरलाख्यटीकाकर्तृणां कविकोविदानां जैनाचार्याणां श्रीमद्अजितसागरसूरिवर्याणां जीवनं तद्विरचितग्रन्थावलोकनेनैव लोके प्रसिद्धमेव । अस्याः सरलायाः संशोधनार्थ प्रो. रसिकलालात्मजमहाशयहीरालालकृतस्तुतिचतुर्विंशतिकाया भाषान्तरादीनामप्युद्वीक्षणं विहितम् । एतद्ग्रन्थसंशोधने च व्याकरणसाहित्यपारंगतेन श्रीमता वैकुण्ठरामात्मजेन भाइशङ्करशास्त्रिणा प्रभूतं साहाय्यं विहितम् , अतस्तयोरुपकृति न विस्मरामि । मच्छतः स्खलनं क्वापि, भवत्येव प्रमादतः। हसन्ति दुर्जनास्तत्र, समादधति सजनाः ॥ १ ॥ इति प्रार्थयिता। कार्तिक्यां पौर्णमास्यां बुधवासरे ) वैक्रमाब्दे १९९१ मु० माणसापत्तने. ) मुनिश्रीहेमेन्द्रसागरः। ___ इयं शोभनस्तुतिचतुर्विंशतिका सर्वमतानुयायिसमता। अस्याः टीकाकर्ता श्रीमअजितसागरसूरि पुङ्गवेन तद्भावार्थमुद्धत्य यथेष्टवृत्तैः काचिदभिनवा कृतिः विरचिता साऽपि स्वरचितस्तोत्ररत्नाकरग्रन्थे मुद्रिताऽस्ति,जिज्ञासुभिर्विलोकनीया तत्र। For Private And Personal Use Only
SR No.008638
Book TitlePrastavana Trayi
Original Sutra AuthorN/A
AuthorShobhanmuni, Ajitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages102
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy