________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना | ]
[४१
च ज्येष्ठबन्धौ स मुनिः पञ्चत्वमियाय । अस्य मुनेः स्तुतिनिर्माणं स्वर्गगमनञ्च गुर्जरदेश एवेति प्रतीयते ' शोभनसूरे: स्वर्गगमनविषये विविधप्रकारः प्रदर्शित: ' महेन्द्रसूरिप्रबन्धे चेत्थमुक्तम्" तदीयदृष्टिसङ्गेन, तत्क्षणं शोभनो ज्वरात् । आससाद परं लोकं, संघस्याऽभाग्यतः कृती ॥ १ ॥ तासां जिनस्तुतीनां च सिद्धसारस्वतः कविः । टीकां चकार सौन्दर्य-स्नेहं चित्ते वहन् दृढम् || २ |"
शोभनमुनिविरचिता ग्रन्थाः शोभनस्तुतिमन्तराऽन्येऽधुना नलभ्यन्ते, केनाऽपि ग्रन्थकारेणाऽन्ये तद्रचिता ग्रन्थाः सन्तीत्युल्लेखोऽपि न कृतः तथाप्येतादृगसाधारणग्रन्थकर्त्तुरपराः कृतयः संभाव्यन्त एव । पुनर्जेंनदर्शनेऽस्याः स्तुतेरनेकधा जैनपण्डितैष्टीका विरचिताः अतिप्रसिद्धिश्चास्या इति वाचनाचार्य पदारूढस्य शोभनमुनेः कविस्वशक्तिरत्युचतरा विद्यते, सम्यक्त्वसप्ततिटीकाकारश्रीमत्संघ तिलकसूरिरष्येनं कविराजमुद्दिश्याऽधस्तनां स्तुतिं विहितवान्--- " बीओ सोहणनामा, जस्स कवित्तं विचित्तयं सुणिउं । कोहि न वियहियएहिं पंडिएहिं सिरं धुणियं ॥ बहुपरियणपरियरिया, अखण्ड पंडिचदप्पदुष्पिच्छा । सिरिभोयरायरायंगणस्स मुहमंडणं जाया । " सम्यक्त्वसप्ततिटीका ( पत्रांक ७२ ) असौ स्तुतिर्निज गुरुणाऽपि संस्तुता श्रीप्रभावकचरित्रे श्लो. ३१९. " स प्राह न स्तुतिध्याना-जानेऽपश्यदहो ! गुरुः । तत्काव्यान्यथ हर्षेण, प्राशंसतं चमत्कृतः ॥ १ ॥”
१ इतश्च शोभनः स्तुतिकरणध्यानादेकस्या गृहे त्रिर्गमनात्तस्या दृष्टिदोषान्मृतः । प्रान्ते निजभ्रातुः पार्श्वत् स्तुतीनां वृत्तिं कारयित्वाऽनशनात्सौधर्मं गतः । ( प्रबन्धचिन्तामणौ पृ० ४२ )
For Private And Personal Use Only