________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
oooooooooooooooooo.............ooooooooo5K
श्रीसद्गुरुस्मरणम्
Acharya Shri Kailassagarsuri Gyanmandir
(स्रग्धरावृत्तम् )
माध्यस्थ्यं यन्मनोऽब्जे स्थितमतिविलसत् सद्दयाभानुभासि, सद्विद्याकामिनी यं सुचिरमनुगता स्वेच्छया क्रीडति स्म । रागद्वेषादिवर्गः प्रशमनमगमच्छुद्धसत्त्वानुयोगाद्, विश्रान्तिस्थानमेष श्रमणगुणगणस्यैकमाराधनीयम् ॥ १ ॥
सौम्याकारो विनीतः स्फुरदधिकमतिर्धर्मतत्त्वप्रवीणः, सोsहेङ्कारैकलीनः श्रुतधरविदितः सत्यवादात्मनीनैः । काव्यालङ्कारवेदी कलितनयगणः साध्यकर्म स्वधीनो, दिव्यानन्दानुरक्तः प्रमथितमदनः शुद्धभावेष्वदीनः ॥ २ ॥ श्रीमन्तः साधुवर्याः प्रथितगुणगणाः सेव्यपादारविन्दाः, लान्ते यत्प्रतापं परहितनिरतं नित्यशर्मप्रदानम् । सिद्धान्तोद्गीततत्त्वाऽद्वयगुणगुणितं लब्धसत्कर्मसिद्धि,
तं वक्तारं प्रसिद्धं जलनिधिमजितं सूरिवर्यं स्मरन्तु ॥ ३ ॥
( मुनि हेमेन्द्रसागरः )
१ यस्येति शेषः । २ सोऽहमितिशब्दः योगवित्समाराधनीयः । ३ सत्यवादात्मभ्यो हितः, अथवा सत्यवादेन आत्महितः ।
००००००००००००००००००००००००००: ODOC००००००००००२९
For Private And Personal Use Only