________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शिक्षितोऽपि जनोऽशिष्टः, कुमार्ग प्रतिपद्यते । वायसो बलिनापुटो वीक्षते ऽमेध्यवस्तु हि ||८४|| पात्रे प्रयोजिता शिक्ष्या, सुस्थिराचलवद्भवेत् । तस्मात्पात्रं निरीक्ष्यैव, प्रवृत्तिः सफलानृणाम् ||८५|| पात्रा पात्रविचारेण, प्रवृत्तिः श्लाघ्यतावहा ।
अविवेकोऽन्यथा प्रोक्तः, सदसज्ज्ञानवर्जितः ||८६॥ परम्परागतं कार्य, विलोक्याविबुधोजनः ।
प्रवर्त्तते स्वयं चान्या-न् प्रवर्त्तयतिगर्हिते ॥ ८७ ॥ अल्पज्ञो नैव जानाति, परमार्थगर्तियतः ।
ततः स्वचरितं योग्यं मन्यते लोकनिन्दितम् ||८८ || नीचः श्लाघ्यपदं प्राप्य, कुरुतेऽनर्थमन्वहम् ।
मुषको व्याघ्रतां प्राप्य मुनिं हन्तुं समुयः ॥ ८९ ॥ निजकर्मानुसारेण, संपदाढ्य जनो भवेत् ।
मुनिप्रसादनेनाऽपि मुषिका संवृताखुना ।। ९० ।। प्रमादिनः स्खलन्त्येव, निजकार्यपराङ्मुखाः ।
प्रमादं तत्परित्यज्य वर्त्तितव्यं विचारवत् ॥ ९१ ॥ अन्यायोपार्जितं द्रव्यं, दीर्घकालं न तिष्ठति । तस्मान्भीतिमताभाव्यं दीर्घायुर्वित्तमिच्छता ॥ ९२ ॥
For Private And Personal Use Only