________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीचसङ्गः सदाहेयः, सुधीभिः परमार्थिभिः ।
सितपक्षो दयाग्रस्तः, पक्षहीनोऽकृताखुना ।। ७५॥ नीचसङ्गरतं रक्ष:-कुलं नष्टं समूलकम् ।।
नश्यत्येव स्वयं नीचः, परानपि विनाशयन् ॥७६॥ उत्तमा यदि नीचानां, सङ्गति यते क्वचित् ।
यथार्थ तत्फलं लातुं, नैव योग्या भवन्ति ते ॥७७॥ नीचांगतिं प्रपद्यन्ते, नीचा नीचेन कर्मणा ।
कर्मपाशनिबद्धास्ते, बंभ्रमन्ति दुराशयाः ।। ७८ ।। कृतापराधलेशानां, शासनं नीतिवेदिभिः ।
इहाऽपि क्रियते योग्य, परतस्तु कुतो गतिः ॥७९।। परापवादवादीयः, परलोकभयोज्झितः ।
स्वकृतं सुकृत क्रीत्वा, परपापान्वितो हि सः ॥८॥ परचित्तानुतापेन, ये भवन्ति प्रमोदिनः ।
प्रमोदस्तु क्षणस्थायी, परितापो दुरन्तकः ॥८१॥ दु:खितोऽपि स्वयं कुर्वन् , सुखिनोऽपरमानवान् ।
संसारवारिधित्तीचा, परमंपदमर्जेति ॥ ८२ ॥ सज्जनः पीड्यमानोऽपि, दुर्जनेन विडम्बितः ।
स्वकीयां शिष्टतां नैव, जहातितप्तहेमवत् ।। ८३ ॥
For Private And Personal Use Only