________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वज्ञा एव जानन्ति, धर्मतत्त्वं रसार्जितम् ।
नहिपाकरसंवेत्ति, दर्वीश्रमसेविनी ॥ ६६ ॥ काचःकाश्चनसंसर्गा-द्धत्तंमारकतद्युतिम् ।
परीक्षकेण संदृष्टो, निजौचित्यं भजत्यहो ।। ६७॥ प्रारब्धस्वंपरित्य, कार्याण्यन्यानियो भजेत् ।
ससमस्तार्थसंमूढो-लोकबाह्यः पदेपदे ॥ ६८ ॥ निजशक्त्यनुसारेण, वर्तमानामनीषिणः ।
साधितोभयसत्कार्याः, पर्यन्तेसिद्धिसाधकाः ॥६९॥ स्तेनानां भुजगानाञ्च, शत्रूणाश्च विरोधिनाम् ।
चिन्तितानि न सिद्धयन्ति, जगदेतत्कुतोऽन्यथा ॥७० व्याधयः शत्रवश्चैव, नोपेक्ष्या उदयं गताः ।
वद्धितास्ते परं दुःखं, मरणान्तं दिशन्ति हि ॥७१॥ सहेतुको वरं शत्रुः, सिद्धेहेतौनिवर्तते ।
निर्हेतुकाः परं दुःख-दायिनः स्युः पदेपदे ॥७२॥ अनुभूतार्थमादाय, मुखिनो मानवाः सदा ।
परम्पराश्रुतं तथ्या-तीतमर्थापहं वचः ।। ७३ ॥ नीच संसर्गतो हानि-र्जायते ज्ञानसंपदाम् । विलोक्यतां खरारूड-मानवस्य हि लाघवम् ॥७४॥
For Private And Personal Use Only