________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्लेशेनार्जितवित्तेन, धर्म यो न प्रसाधयेत् ।
सऋणी केवलं दुःख-भाजनं तु भवेभवे ।। ९३ ।। पक्षमात्रसहायोऽपि, शकुनिर्मानसेप्सितम् ।
प्रयाति स्थानमक्षीणैः, सर्वाङ्गदुर्लभं किमु ॥९॥ मा मनुष्येषु मूर्खेषु, वसतिर्जायतां कदा।
यावजीवं जडासङ्गः, सुकृतैकदवानलः ।। ९५ ॥ जडतोत्तापितो जन्तु- व शान्त्यास्पदं भवेत् ।
शान्तानामपि चेतांसि, तापयत्यनलोपमः ॥१६॥ विचित्रो जडताताप-आन्तरोत्तापकारकः ।
जलादीनां प्रयोगेण, शाम्यतिनोतवद्धते ।। ९७ ॥ दैवतालम्बनं लोके, साधनं हि महत्तरम् ।
श्रान्तानां सुलभा शान्तिः, सर्वकार्य विरोधिनी ॥९८॥ यत्रकुत्रगतोऽपुण्यो-भवेदास्पदमापदाम् । मालुरेणवनयातः, खल्वाटोभग्नमस्तकः ।। ९९॥
(इन्द्रवज्रावृत्तम्) कार्पण्यदोषोपहतस्वभावो-न कीर्तिमौदार्यवतांप्रयाति । दीपप्रभादीनतमेवनैशी, तिग्मांशुभामण्डलहारिशोभाम् ॥१००
For Private And Personal Use Only