________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीसुविधिनाथस्तवमम् ॥ ९ ॥
( वसन्ततिलकावृत्तम् )
लोकत्रयाभिनमनीयपदारविन्द, लक्ष्मीपतेमकरलाविछतपादपद्म ।
संसारसागरभयाद्विकरालरूपा
त्रायस्वमां सुविधिनाथजगत्प्रभो ! त्वम् ॥१॥
सेवापरेषु सकलेषु जनेषु नित्यं
देवा भवन्तिसकलाअपिसौम्यभावाः । लोकत्रयेऽविषमभाववतात्वयैव
संजातमस्तुनमनं तवपादयोर्मे ॥ २ ॥
सुग्रीवराजतनयमथितप्रभाव
भव्यात्मनां त्वमसितारकउत्तमौजाः । तस्मात्वदीयभजनंप्रबलंवदन्ति
सत्याञ्चितातिवचनाविदितप्रभावाः ॥ ३ ॥
भव्याः श्रयन्तिभवतारकशान्तिसम संप्रेक्षणात्सुविधिनाथ भवत्सुमूर्तेः । सावद्यशान्तिजननोत्तम भूमिमीश किंचिन्तयाऽन्यसुरपादपकामधेन्वोः ॥ ४ ॥
For Private And Personal Use Only