________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अतिमर्दितमोहमकर्मवलं, छानावगणार्षिकरकमलम् ।
कृतधर्मरताऽखिलरूढखलं, प्रभयावरयाऽश्चितहस्ततलम्॥३॥ तुलराशिविराजितमारजितं, वृकयोनिभृतं निभृतात्मवृतम् ।
गतरागमदं शिवशर्मपदं, शरदिन्दुसमाननवारिरुहम् ॥४॥ कनकोत्तमकान्तसुकान्तिधरं, वरपार्थसुपार्थ जिनमवरम् । विनयाश्चितमानसकोऽहमिह, प्रणमामिमुदामितभावयुजा ॥५
श्रीचन्द्रप्रभस्तवनम् ॥८॥
(उप्रजातिवृत्तम् ) त्वत्पादपदार्चनतोविधाय, प्राचीनजन्मार्जितकर्मराशेः ।
निःशेषमन्तं भववारिराशेः, प्रयान्तिपारं भवतःप्रभावात् ॥१ चन्द्रप्रभ ? त्वांशरणंप्रपद्ये, निर्मिनमायाऽतितमःप्रकाण्ड ।
सन्तस्तरन्त्येवतवप्रभावा-दनन्यभावेनहिगेयकीर्ते ! ॥ २ ॥ अनन्तकान्तिप्रभवःसदाशीः, सदाशिवः सौम्यवपुःप्रभावः।
चन्द्रप्रभोनिर्मलमानसाय, ददातुशं चन्द्रविभःमभुमे ॥३॥ उद्दामचारित्रकलानिधान, त्वदाननाम्भोजविलोकिनोमे ।
गतापदुद्भूतमनन्तशर्म, चन्द्रप्रभप्रौढमहोधिराज ॥ ४ ॥ स्तोतवजस्तुत्यगुणप्रकारः, प्रकामसंभूतिविभासमानः ।
तनोतुसौख्यंसमविश्वलोकः, पद्मप्रभोवृश्चिकराशिभर्ता ॥५॥
For Private And Personal Use Only