________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीपद्मप्रभस्तवनम् ॥ ६ ॥
( भुजंगप्रयातंवृत्तम् ) प्रधानप्रभाराशिभिर्भ्राजमानः, प्रभिन्नातिदुर्दान्तमोहप्रमादः । सुसीमात्मजश्रीपतिर्मेऽर्चनीयः, सदात्वंसुरेन्द्राभिवन्द्यक्रमाब्जः ॥ १ सकन्यारव्यराशिंदधानो ऽत्रपद्म-प्रभोर्भूतले भूतलोकप्रकाशी
करोतुक्रियाज्ञानरक्तेमदीये निवासंहृदि श्रेष्ठभावेसदैव ॥२॥ मनःपङ्कजं नित्यमेवत्वदीयं स्वरूपंस्मरत्यक्षयंदेवयस्य ।
तमेवातिधन्यं नरं पुण्यवन्तं, त्रिलोकाधिनाथात्रजानामि लोके ॥ ३ वरेण्यं शरण्यंत्वदङ्गप्रभावं, प्रकामंस्मराम्यक्षताक्षप्रकाण्डैः । कृपाधीशपद्मप्रभक्षेमधाम, महायोगिगम्यं मनोवागतीतम् ॥४॥ स्वदीयप्रभाभासुरोवासरेशो - जगज्जीव पद्माकरं सावधानः । सदासत्वरं स्वक्रियायां विबुद्धं करोतीशपद्मप्रभ? क्षोभहारिन् ॥५
श्रीसुपार्श्वनाथस्तवनम् ॥ ७ ॥
( तोटक छन्दः )
गुणवन्तमनन्तकलानिचितं, पृथिवीतनुजंतनुतारहितम् । स्वयमेवसदासुखदानरतं, परमोत्तम रूपविभानिरतम् ॥ १ ॥ मुनिवृन्दसमान करंप्रवरं हृदयेप्सितसिद्धिवितानकरम् । भवभीतिदवानलशान्तिकरं, करदीकृतधर्मरिपुप्रकरम् ||२||
"
For Private And Personal Use Only