________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मवाभवन्तमन घसुदयानिधानमभ्यर्थयामि सुतरां धनराशिग ! त्वाम् ।
इत्थंत्वदीयचरणाम्बुजरक्तचित्तस्तिष्ठामि शश्वदखिलेशतथाकुरुष्व ।। ५ ।।
श्रीशीतलनाथस्तवनम् ॥ १० ॥
( . भद्रिका [ललित ] छंदः )
जयतु शीतलः शान्तभावनो- जनमनोहरोऽरिष्टनाशकः । अनिवारको मुक्तिदायको गुरुगुणःसदाभावितात्मनाम् ॥ १ शिवशुभाङ्कुरोवृद्धिकारणे, जलधरोपमंविश्वतायिनम् ।
अखिलसंपदांहेतुमीश्वरं, जिनवरंस्तुवेशीतलंसदा ॥ २ ॥ दृढरथक्षितीन्द्रात्मनन्दनं, सकलनन्दनंनाकि संस्तुतम् ।
नमतदेहिनो भूरिभूतये, कलिमलक्षतिर्जायते ततः ॥ ३ ॥ सुरतपत्तनेनिश्चलस्थितं विदधदर्हतामीश्वरः सताम् ।
हृदयपङ्कजे ध्यानकारिणां, शिवकरः स्मृतः शीतलः प्रभुः ||४|| अजनिसर्वदा व्याधिहारकं तत्रसुदर्शनंमादृशां नृणाम् । जननमृत्युतो नास्तिमेऽधुना, भयमहोक्षितौशीतलप्रभो ? ॥ ५ ॥
For Private And Personal Use Only