________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી પરમાત્મ જ્યંતિઃ वोधरोधक द्वन्द्वं मोहविघ्नस्य वा परम् स क्षिणोति क्षणादेव शुक्लघूपध्वजार्चिषा ॥ ३० ॥ आत्मलाभ मथासाद्य शुद्धिं चात्यन्तिकीं पराम् प्राप्नोति केवलज्ञानं तथा केवल दर्शनम् ॥ ३१ ॥ यदायुरधिकानि स्युः कर्माणि परमेष्ठिनः समुद्घात विधिं साक्षात् प्रागेवारभते तदा ॥ ३२ ॥ अनन्तवीर्यप्रथितमभावो दण्डं कपाटं प्रतरं विधाय स लोकमेनं समयैश्चतुर्भिर्निश्शेषमापूरयति क्रमेण ॥ ३३ ॥ तदा स सर्वगः सार्वः सर्वज्ञः सर्वतोमुखः
विश्व व्यापी विभुर्भर्त्ता विश्व मूर्ति महेश्वरः ॥ ३४ ॥ लोकपूरण मासाद्य करोति ध्यान वीर्यतः
For Private And Personal Use Only
૧૨૭
आयुः समानि कर्माणि मुक्ति मानीय तत्क्षणे ॥ ३५ ॥ ततः क्रमेण तेनैव सपश्चाद्विनिवर्त्तते
लोक पूरणतः श्रीमान् चतुर्भिः समयैः पुनः ॥ ३६ ॥ काययोगे स्थिति कृत्वा बादरेऽचिन्त्यचेष्टितः सूक्ष्मीकरोति वाक् चित्त योग युग्मं च बादरम् ॥ ३७॥ काययोगं ततस्त्यक्त्वा स्थिति मासाद्य तद्वये स सूक्ष्मी कुरुते पश्चात् काययोगं च बादरम् ॥ ३८ ॥ काययोगे ततः सूक्ष्मे स्थितिं कृत्वा पुनः क्षणात् योगद्वयं निगृह्णाति सद्योवाक् चित्त संज्ञकम् ॥ ३९ ॥ सूक्ष्मक्रियं ततो ध्यानं स साक्षात् ध्यातुमईति सूक्ष्मैक काय योगस्थ स्तृतीयं यद्धि पठ्यते ॥ ४० ॥ द्वासप्तति विलीयन्ते कर्म प्रकृतयो द्रुतन् उपान्ये देव देवस्य मुक्ति श्री प्रतिबन्धकाः ॥ ४१ ॥