________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૨૬
શ્રી પરમાત્મ જ્યોતિ: त्रियोगी पूर्वविद्यः स्या दिदं ध्यायत्यसौ मुनिः सवितर्क सवीचारं सपृथक्त्वमतो मतम् ॥ १८ ॥ अस्याचिन्त्यप्रभावस्य सामर्थ्यात् स प्रशान्तधीः मोहमुन्मूलयत्येव, शमयत्यथवा क्षणे ॥ १९ ॥ इदमत्र तु तात्पर्य, श्रुतस्कन्धमहार्णवात् । अर्थमेकं समादाय ध्यायनर्थान्तरं व्रजेत् ॥ २० ॥ शहाच्छद्धान्तरंयाया, द्योग योगान्तरादपि सर्वाचार मिदंतस्मात्, सवितर्कच लक्ष्यते ॥ २१ ॥ श्रुतस्कन्धमहासन्धु, मवगाह्य महामुनिः ध्यायेत् पृथक्त्ववितर्क वीचारं ध्यानमनिमम् ॥ २२ ॥ एवं शान्तकषायात्मा कर्मकक्षाशुशुक्षणिः एकत्वध्यान योग्यः स्यात्, पृथक्त्वेन जिताशयः॥२३॥ पृथक्त्वे तु यदा ध्यानी, भवसमल मानसः तदैकत्वस्य योग्यः स्या दाविर्भूतात्म विक्रमः ॥२४॥ ज्ञेयं प्रक्षीण मोहस्य, पूर्वज्ञस्यामितातेः सवितर्कमिदं ध्यान, मेकत्व मति निश्चलम् ।। २५ ॥ अपृथक्त्वम वीचार, सवितर्क च योगिनः एकत्वमेक योगस्य, जायतेऽसन्त निर्मलम् ॥ २६ ॥ द्रव्यं चैकमणुं चैक पर्यायं चैकमश्रमः चिन्तयसेकयोगेन यत्रैकत्वं तदुच्यते ॥ २७ ॥ एक द्रव्यमथाणुं वा पर्यायं चिन्तयेद्यदि योगैकेन यदक्षीणं तदेकत्व मुदीरितम् ॥ २८ ॥ अस्मिन् सुनिर्मलध्यान हुताशे प्रविजृम्भिते विलीयन्ते क्षणादेव घातिकर्माणि योगिनः ॥ २९ ॥
For Private And Personal Use Only