________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી પરમાત્મ જ્યોતિ:
૧૫ श्रुतज्ञानार्थसम्बन्धा च्छुतालम्बनपूर्वके पूर्वे परे जिनेन्द्रस्य निःशेषालम्बनच्युते ॥ ६ ॥ सवितर्क सवीचारं सपृथक्त्वं च कीर्तितम् । शुक्ल मायं द्वितीयंतु विपर्यस्तमनोऽपरम् ॥ ७॥ सवितर्कम वीचार मेकत्व पदलाछितम् कीर्तितं मुनिभिः शुक्ल द्वितीयमतिनिर्मलम् ॥ ८॥ सूक्ष्मक्रियाप्रतीपाति तृतीयं सार्थ नामकम् समुच्छिन्नक्रियं ध्यानं तुर्यपायें निवेदितम् ॥९॥ तत्र त्रियोगिना माचं द्वितीयंत्वेक योगिनाम् तृतीय तनु योगानां स्यात्तुरीयम योगिनाम् ॥ १० ॥ पृथकत्वेन वितर्कस्य वीचारो यत्र विद्यते सवितर्क सविचारं स पृथक्त्वं तदिष्यते ॥ ११ ॥ अविचारो वितर्कस्य यत्रैकत्वेन संस्थितः सवितर्कम वीचारं तदेकत्वं विदुर्बुधाः ॥ १२ ॥ पृथक्त्वं तत्र नानात्वं वितर्क श्रुतमुच्यते । अर्थव्यञ्जनयोगानां वीचारः संक्रमः स्मृतः ॥१॥ अर्थादर्थान्तरापत्ति रर्थसंक्रान्ति रिष्यते ज्ञेया व्यञ्जन संक्रान्ति व्यञ्जनाद् व्यञ्जने स्थितिः ॥१४॥ स्यादियं योगसंक्रान्ति र्योगायोगान्तरे गतिः विशुद्धध्यान सामर्थ्यात् क्षीणमोहस्य योगिनः ॥ १५॥ अर्थादर्थ वचः शद्धं योगायोगं समाश्रयेत् । पर्यायादपि पर्याय द्रव्याणोश्चिन्तयेदणुम् ॥ १६ ॥ अर्थादिषु यथा ध्यानी संक्रामत्यविलम्बितम् । पुनर्व्यावर्त्तते तेन प्रकारेण सहि स्वयम् ॥ १७ ॥
For Private And Personal Use Only