________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भो भोः ! प्रमादमवधूय भजध्वमेनमागत्य निवृतिपुरि प्रति सार्थवाहम् । एतन्निवेदयति देव ! जगत्त्रयाय, मन्ये नदन्नभि नभः सुरदुन्दुभिस्ते ॥ २५ ॥ उद्दयोतितेषु भवता भुवनेषु नाथ !, तारान्वितो विधुरयं विहताधिकारः । मुक्ताकलापकलितोच्छ्वसितातपत्र व्याजात् त्रिधा धृततनुर्धवमभ्युपेतः ॥२६ ।। स्वेन प्रपूरितजगत्त्रयपिण्डितेन, कान्तिप्रतापयशसामिव सञ्चयेन । माणिक्यहेमरजतप्रविनिर्मितेन, सालत्रयेण भगवन्नभितो विभासि ॥२७ ।। दिव्यस्रजो जिन ! नमत्रिदशाधिपानामुत्सृज्य रत्नरचितानपि मौलिबन्धान् । पादौ श्रयन्ति भवतो यदि वा परत्र, त्वत्सङ् गमे सुमनसो न रमन्त एव ।। २८॥ त्वं नाथ ! जन्मजलधेविपराङ मुखोऽपि, यत्तारयस्यसुमतो निजपृष्ठिलग्नान् । युक्त हि पार्थिवनिपस्य सतस्तवैव, चित्रं विभो ! यदसि कर्मविपाकशून्यः ।। २९॥
For Private And Personal Use Only