________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वेश्वरोऽपि जनपालक ! दुर्गतस्त्वं, किंवाऽक्षरप्रकृतिरप्यलिपिस्त्वमीश ! । अज्ञानवत्यपि सदैव कथञ्चिदेव, ज्ञान त्वयि स्फुरति विश्वविकाशहेतुः ।। ३०॥ प्राग्भारसम्भृतनभांसि रजांसि रोषा दुत्थापितानि कमठेन शठेन यानि । छायाऽपि तैस्तव न नाथ ! हता हताशो, ग्रस्तस्त्वमीभिरयमेव पर दुरात्मा ।। ३१ ।। यद गर्जदूजितघनौघमदभ्रभीम, भ्रश्यत्तडिन्मुसलमांसलघोरघारम् । दैत्येन मुक्तमथ दुस्तरवारि दघ्र, तेनैव तस्य जिन ! दुस्तरवारिकृत्यम् ।। ३२॥ ध्वस्तोर्ध्वकेशविकृताकृतिमर्त्यमुण्डप्रालम्बभृद्भयदवक्त्रविनिर्यदग्निः । प्रेतव्रजः प्रति भवन्तमपीरितो यः, सोऽस्याभवत् प्रतिभवं भवदुःखहेतुः ॥३३॥ धन्यास्त एव भुवनाधिप ! ये त्रिसन्ध्यमाराधयन्ति विधिवद् विधुतान्यकृत्याः । भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशाः, पादद्वयं तव विभो ! भुवि जन्मभाजः ।। ३४ ।।
For Private And Personal Use Only