________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
चित्र विभो ! कथवमाङमुखवृन्तमेव, विष्वक पतत्यविरला सुरपुष्पवृष्टिः ? । तद गोचरे सुमनसां यदि वा मुनीश !, गच्छन्ति नूनमध एव ही बन्धनानि ।। २० ।। स्थाने गभीरहृदयोदधिसम्भवायाः, पीयूषतां तव गिरः समुदीरयन्ति । पोत्वा यतः परमसम्मदसंगभाजो, भव्या व्रजन्ति तरसाऽप्यजरामरत्वम् ।। २१ ।। स्वामिन् ! सुदूरमवनम्य समुत्पतन्तो, मन्ये वदन्ति शुचयः सुरचामरौघाः । येऽस्मै नतिं विदधते मुनिपुंगवाय, ते नूनमूर्ध्वगतयः खलु शुद्ध भावाः ।। २२ ।। श्यामं गभीरगिरमुज्ज्वलहेम रत्नसिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम् । आलोकयन्ति रभसेन : नदन्तमुच्चैइचामीकराद्रिशिरसीव नवाम्बुवाहम् ।। २३ ।। उद गच्छता तव शितिधतिमण्डलेन, लुप्तच्छदच्छविरशोकतरुर्बभूव । सान्निध्यतोऽपि यदि वा तव वीतराग !, निरागतां व्रजति को न सचेतनोऽपि ? ॥२४ ।।
For Private And Personal Use Only