________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्यानाज्जिनेश ! भवतो भविनः क्षणेन, देहं विहाय परमात्मदशां व्रजन्ति । तीव्रानलादुपलभावमपास्य लोके, चामीकरत्वमचिरादिव . धातुभेदाः ।। १५ ।। अन्तः सदैव जिन ! यस्य विभाव्यसे त्वं, भव्यः कथं तदपि नाशयसे शरीरम् ? । एतत्स्वरूपमथ मध्यविवत्तिनो हि, यद्विग्रहं प्रशमयन्ति महानुभावाः ।। १६ ।। आत्मा मनीषिभिरयं त्वदभेदबुद्धया, ध्यातो जिनेन्द्र ! भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं, किं नाम नो विषविकारमपाकरोति ? ।। १७ ।। त्वामेव वीततमसं परवादिनोऽपि, नून विभो ! हरिहरादिधिया प्रपन्नाः । किं काचकामलिभिरीश ! सितोऽपि शंखो, नो गृह्यते विविधवर्णविपर्य येण ? ॥१८॥ धर्मोपदेशसमये सविधानुभावादास्तां जनो भवति ते तरुरप्यशोकः । अभ्युद्गते दिनपतौ समहीरुहोऽपि, किंवा विबोधमुपयाति न जोवलोकः ? ।।१९।।
For Private And Personal Use Only