________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५६ )
आदिप्रभो ! तव पदाऽब्जमहं प्रणम्य, मुक्तोऽस्मि संसृतिभयादखिलात्सुखेन । नातः परं मम भयं भवजातदुःखाअर्बुदाचललसद्वृषभं स्तवीमि ॥ ८ ॥
चोणीतुलाङ्कशशभृन्मितद्दायनेऽलं,
षष्ठ्यां सितेऽर्बुद गिरेः प्रविधाय यात्राम् । स्तोत्रं प्रगीतमिदकं शुभफाल्गुने च
कल्याणदातृगणिनाऽजित सागरेण ॥। ९ ॥
श्रीचारूपतीर्थस्तोत्रम् ॥ ४ ॥
( शार्दूलविक्रीडितवृत्तम् )
मेघश्याममनोहराऽऽकृतिजुषं चक्षुष्मतां शान्तिदं, दातारं विभवान्विचित्रसुखदास्त्रातारमागन्तुकान् । हन्तारं भवभूततापमखिलं भक्तिप्रियोल्लासिनां, चारूपेश्वरपार्श्वनाथमनिशं भक्त्या स्तुवे श्यामलम् ॥१॥
हाटकराजतरत्नभासुरमहाच्यत्रत्रय भ्राजिनं,
नागेन्द्राच्छफणासहस्रविलसन्मौलिप्रभादीपिनम् । केयूरप्रतिबद्ध बाहुयुगलं चेतोहराङ्गप्रभं,
चारूपेश्वर पार्श्वनाथमनिशं भक्त्या स्तुवे श्यामलम् ॥२॥
For Private And Personal Use Only