________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५७ ) कर्माऽरिप्रतिरोधकं गुणगणान्विस्तारयन्तं कमात् ,
संसाराम्बुधितारकं शिवगतिश्रेयाप्रदानक्षमम् । रागद्वेषमहारिवारविजयप्राप्तप्रशस्ति क्षणा
चारूपेश्वरपार्श्वनाथमनिशं भक्त्या स्तुवे श्यामलम् ॥३॥ यत्पादाऽम्बुजसेवनेन मुनयो दीक्षाफलं लेभिरे,
यद्ध्यानं शिवगामुका जनवरा रात्रिन्दिवं कुर्वते । तं तत्त्वार्थविभासकं जिनपति त्रैलोक्यरक्षाकर, __ चारूपेश्वरपार्श्वनाथमनिशं भक्या स्तुवे श्यामलम् ॥४॥ सर्वैः साम्यतया द्विजादिमनुजैर्यस्य प्रभोः सेवितं,
भन्युलासिमनाभिर िवनजं सद्रेखया शोभितम् । सस्याऽसत्यविवेकमित्थमनघा जानन्ति लोकोत्तमा
श्वारूपेश्वरपार्श्वनाथमनिशं भक्त्या स्तुवे श्यामलम् ॥५॥ संप्रेक्ष्य प्रथमां स्वभावमधुरां मृत्तिं जगत्पावनी,
यस्य क्षेमविधायिनी नरगणास्तापत्रयोन्मूलनीम् । संसाराऽर्णवतारिणी निजजनुःसाफल्यमातन्वते, ___ चारूपेश्वरपार्श्वनाथमनिशं भक्त्या स्तुबे श्यामलम् ॥६॥ यत्सेवा शिवसन्तति रचयति क्षेमं तनोति क्षिती,
कीर्ति दिक्षु महोज्वलां तनुजुषां विस्तारयत्यजसा । पेतःप्रापयति प्रसादमतुलं तृष्णां छिनत्तिक्षणा- चारूपेश्वरपार्श्वनाथमनिशं भक्त्या स्तुवे श्यामलम् ॥७॥
For Private And Personal Use Only