________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५५) विघ्नानि यान्ति विततानि तव प्रभावा
नाशं विभो ! जगदनन्यहिताऽनुबन्धिन् ! । सर्वार्थदाननिपुणो न विभुस्त्वदन्यः,
श्रीअर्बुदाचललसवृषमं स्तवीमि ॥३॥ स्तोत्रप्रिया नरगणा भवशान्तिकारं,
सौम्यं प्रभो ! तव महागुणराशिमाशु । चित्ते विभाव्य भवभीतिपराङ्मुखाः स्युः, __ श्रीअर्बुदाचल लसदवृषभं स्तवीमि ॥४॥ संसारतापविधुराः परिणामसिद्धा
स्तद्धतुरत्र भवतश्चरणाऽनुपातः । कस्त्वत्प्रभावविमुखो गुरुसंगरक्तः,
श्रीअर्बुदाचललसवृषभं स्तवीमि ॥५॥ को बुद्धिमान्विदितभूरिगुणप्रतापं,
स्वन्पाऽणुधामविभवं जुषते विहाय । कालान्तकक्रमगतोऽपि भवान्तकारिन् ?,
श्रीअर्बुदाचललसवृषभं स्तवीमि ॥६॥ भव्या जनास्तव विभो ! शरणं प्रपना
स्तीवा॑ऽपमृत्युमनघाः शिवशर्ममाजः । रेजुः समस्तधरणीधवपूज्यपादाः,
श्रीअर्बुदाचललसवृषभं स्तवीमि ॥७॥
For Private And Personal Use Only