________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६ )
श्रीशान्तिनाथस्तवनम् ॥ १६ ॥
(द्रुतविलम्बितवृत्तम् )
शशिसमानवराऽऽननभासुरः, सुरनरेन्द्रनताऽग्रपदाम्बुजः । प्रचुरविनतमस्सुदिवाकरो -- जयतु शान्तिदशान्ति जिनेश्वरः ॥ १ ॥ सुमतिदो दमितेन्द्रियवाजिक - श्वपल चित्तानिवार कबन्धुरः । विशद कान्ति भराश्चितनासिको - भवतु शान्तिजिनोजनशान्तिदः प्रवरसिद्धिकरं महिमाकरं, प्रथितकीर्त्तिभरं जगदीश्वरम् । विधिवशादनुभूतकृतिक्रियं भजत मेषकराशियुजं नराः ! ॥३॥ जनमनोरथदेवतरूत्तमो - निखिलदोषविवर्जितमानसः । अनुपमोत्तमतश्व विभासकः, सकरुणोऽचनीयः सततं सताम् ॥ ४॥ विमलभव्यसरोज विषोधने, निशितरश्मिरनुत्तमशासनः । विहितदुष्टपराक्रमरोधनः, शुभवतामवताद्गणमीश्वरः ॥ ५ ॥
"
श्री कुन्थुनाथस्तवनम् ॥ १७ ॥
( पचामरछन्दः )
प्रभूतभूतिसौध ! मानसाऽघराशिदारक !, प्रपूजनीयपादवारिज ! प्रभिन्नरागधीः ! । सुमन्त्र तन्त्रजातसिद्धिरन्वहं लुठत्यहो, पदाम्बुजे सुरार्चनीय कुन्थुनाथ ! तावके ॥ १ ॥
For Private And Personal Use Only