________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १५ ) श्रीधर्मनाथस्तवनम् ॥ १५ ॥
( कामक्रीडाछन्दः) सत्यज्ञानं भास्वद्रूपं धर्माऽऽत्मानं ध्यातृणां,
ध्यानीयाङ्गं सिद्धिक्षेत्रं प्रेमाऽमत्रं नक्षत्रम् । चिन्तारत्नं नष्टायनं वन्दे प्रत्नं दुःखानं,
धर्मेशानं वृत्यालानं सन्नामानं भूमानम् ॥१॥ संतप्तानां सम्यक्त्राता मारीहर्ता त्वं भर्ती,
दीनादीना-मापद्धा संपत्कर्ता सत्वानाम् । दुर्भावानां नित्यं हर्त्ता सिद्धेर्दाता निर्माता,
विश्वत्राता कामादीनां मूलोद्धा विख्याता ॥२॥ स्तोतुं योग्यो भव्यैर्भाग्यैर्योग्यैर्गम्यो विज्ञेयः,
श्रद्धाध्येयो बुद्ध्याऽमेयो भक्तर्गेयः संश्रेयः । पापाऽपायो-राजस्कायो-दाता रायो निर्मायः,
संसर्तव्यः सत्त्वश्लाघ्यःप्राप्तश्रेयःसातत्यः ॥३॥ संपज्ज्येष्ठः साधुश्रेष्ठः पूज्यप्रेष्ठो-भूयिष्ठो___ मानाऽस्पृष्टो विद्वत्पृष्टः कामाऽकृष्टः संजुष्टः । सद्भिर्भक्त्या-शक्त्याधीनः श्रद्धावद्भिः संस्तुत्यो_हेयो नो वै श्रीवज्राङ्को-मनातङ्को निःशंकम् ॥४॥ यः श्रीधर्मो-धर्माऽऽराम-स्तीर्थाधीशो-भूमीशो
निःशेषार्थ-प्रादुष्कर्ता नष्टक्लेशो-निःसीमा । कर्क राशिं त्रैलोक्यानां संत्रातारं संधत्ते,
भव्या भावा-त्संसेव्यःस क्षिप्रं लोके शान्ताऽऽत्मा ॥५
For Private And Personal Use Only