________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४ ) श्रीअनन्तनाथस्तवनम् ॥ १४ ॥
( भुजंगप्रयातं वृत्तम् ) मुभव्याऽऽत्मनो यस्य दीव्याऽऽत्मगेहे,
सदा द्योततेऽनन्तचिन्तामणिः । स्वयं तस्य दुष्टाऽपदो यान्ति दरे,
सुसंपद्विलासो भवेदक्षतवः ॥१॥ समस्ति प्रभा मानहीना यदङ्गे, __ मृगाङ्कोष्णरश्मिविभा भासयन्ती । नतं देवदेवाऽसुरेन्द्रैर्नृनाथै
रनन्तप्रभुं तं मुदाऽहं स्मरामि ॥२॥ स्वरूपस्थितं सर्वलोकप्रकाशं,
जनो योगतःसिंहसेनाऽऽत्मजातम् । निरीक्षेत तं नेत्रवन्तं जनेषु,
सुधन्यं भवोद्भेदकारं हि मन्ये ॥३॥ समाराधतेऽनन्तनाथं विनाथं,
जनः सजनाऽऽनन्ददायी सुधीर्यः। तदीयाखिला वांछिता कार्यसिद्धिः,
सदा सन्निधित्वं जना ! नोजहाति ॥४॥ सुखाऽऽधारकं मीनराशिप्रतीत
मनन्तं जिनेशं कृपावारिराशिम् । भवोत्तारकं तं नमन्तु प्रसन्न, जना इष्टलब्धिप्रदातारमीशम् ॥५॥
For Private And Personal Use Only