________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३ )
विपुलविलस-त्सत्यज्ञान -प्रदायिनमीश्वरं, विमलमरि-हन्तारं नित्यं, नमामि विभूतये ॥१॥
प्रशमसुखदं, श्यामासूनं, विचित्रकलाऽन्वितं
भवरतिहरं, शुद्धाऽऽनन्दं, सदाऽऽत्मरुचिप्रदम् । कुमतिदलनं, स्वाऽऽत्मारामं परार्थपरायणं,
सुमतिसदनं, भग्रक्षोभं, भजेद्विमलाऽधिपम् ॥ २ ॥ कुमति पिहित- स्फारोद्बोधा - विमूढजनास्तव,
विमलविभवां, मूर्त्ति रम्यां, निरीक्ष्य मनागपि । विमलजिन ! ये द्वेषातीता भवन्ति न तादृशां,
गतशुभदृशां दुष्टानां गतिर्बत कीदृशी ॥ ३ ॥ अभयपदवी, धीराधीना, यदीयमुखोद्गता,
भववनगत - क्षोभक्षान्ति, विधापयति चणात् । अनुपममहा - ऽऽनन्दाऽऽत्मानं, सुरेश्वरपूजितं,
तमतिविमलं देवं वन्दे, प्रधानपद स्थितम् ॥ ४ ॥ विमलभगवन् ! शस्याचाराः, सदैव वचस्तव,
मनसि विमले, भव्याऽऽत्मानो - विचिन्त्य जिनेश्वर !, विकसित धिय-स्त्वामाराध्यं, भजन्ति महोत्सुकाः, सुकृतसुभगा - धन्याऽऽत्मानस्त एव विचक्षणाः ||५||
For Private And Personal Use Only