________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२ )
सम्यक् पवित्रचरितं परिशान्तदृष्टि, श्रीवासुपूज्यमनिशं नमतेष्ट सिध्यै ॥ १ ॥
शिष्टाङ्गिसंघपरिवेष्टितसन्निवेशं, कुम्भाऽख्यराशिविलसन्तमजस्रबोधम् । विश्वेश्वरं प्रवरशील कलाऽभिरामं,
लोकास्स्तुवीध्वमनघं वरवासुपूज्यम् || २ ||
दुर्भानवा अपि विभावमनुश्रयन्तस्त्वत्पादपद्मभजनानुमता जिनेश ! | प्रक्षीणमोहततयस्तव सत्यरूप
मासेदुरुच्चविभवा जगदेकनाथ ! ॥ ३ ॥ भूताऽधिनाथ वसुपूज्य नरेश गेहे,
संप्राप जन्म सुखदं जगतीगतानाम् । यः सर्वदः शमनको विपदां जनानां, तं वासुपूज्यपरमेशमहं स्तवीमि सत्यात्मलब्धिजननोत्तमहेतुमन्यं,
त्वामन्तरेण भवतारक ! नैव मन्ये । तस्माच्वदीय चरणाऽम्बुजदर्शनं मे,
शान्तिप्रदायि सततं निपुङ्गवास्तु ॥ ५ ॥
श्रीविमलनाथस्तवनम् ॥ १३ ॥ ( हरिणीप्लुतवृत्तम् )
118 11
उपकृतमति, संसारेऽस्मिन्महत्यधिदैवतमखिलसुकृति - श्रेणीसेव्यं, विनाशितविप्रियम् ।
For Private And Personal Use Only