________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७ ) महाप्रभामरोर्जितं जिताऽन्तरारिजातकं, - प्रजेशवरनन्दनं सुनन्दनं सुमेधसाम् । प्रसिद्धसिद्धविद्ययाऽऽश्रितं सिताऽम्बुजाऽऽननं, __ सदोद्यतोऽहमीश्वरं नमामि विश्ववन्दितम् ॥ २॥ सुमेरुभूधरेन्द्रधीरवीर्यसारमुत्कटं,
सुभोग्यभोगवर्जितं प्रमर्दिताऽऽधिवेदनम् । अयोग्ययोग्यनीतिरीतिपारगामिनं वरं,
भजध्वमाशु जन्तुजातखेदखेदकं जिनम् ॥ ३ ॥ पवित्रचारचित्रवृत्तिधारकं कृपाधरं,
निखर्वगर्ववारकं सुपर्ववर्गसेवितम् । जगप्रयाऽतितारकं प्रतारितप्रपञ्चकं,
भज श्रियोत्तमोत्तमं जिनेश्वरं वराऽऽतये ॥४॥ सुधर्ममर्मवेदिमानसाजभानुमालिनं,
शुभाशयाऽभियुक्तमुक्षराशियोगराजिनम् । समस्तशस्तभावहेतुकं विमायिनं जिनं,
भजामि कुन्थुनाथमिद्धबोधिबीजवापिनम् ॥५॥
श्रीमदरनाथजिनस्तवनम् ॥ १८ ॥
( रामगिरिरागण गीयते ) निष्टतादोदकं, शिष्टजनमोदकं,
विमतपथतोदकं, मुमतकारम् ।
For Private And Personal Use Only