________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसुविधिनाथस्तवनम् ॥ ९ ॥
( वसन्ततिलकावृत्तम् ) लोकत्रयाऽभिनमनीयपदारविन्द !,
लक्ष्मीपते ! मकरलाञ्छितपादपद्म !। संसारसागरभयाद्विकरालरूपा
प्रायस्व मां सुविधिनाथ ! जगत्प्रभो! त्वम् ॥१॥ सेवापरेषु सकलेषु जनेषु नित्यं,
देवा भवन्ति सकला अपि सौम्यभावाः । लोकत्रयेऽविषमभाववता त्वयैव,
संजातमस्तु नमनं तव पादयोमें ॥२॥ सुग्रीवराजतनय ! प्रथितप्रभाव !,
भव्याऽऽत्मनां त्वमसि तारक उत्तमौजाः। तस्मावदीयभजनं प्रबलं वदन्ति,
सत्याश्चितातिवचना विदितप्रभावाः ॥३॥ भव्या:श्रयन्ति भवतारक ! शान्तिसम्म,
संप्रेक्षणात्सुविधिनाथ ! भवत्सुमृतेः । सावधशान्तिजननोत्तमभूमिमीश!, .
किं चिन्तयाऽन्यसुरपादपकामधेन्वोः ॥४॥ मत्वा भवन्तमनघं सुदयानिधानमभ्यर्थयामि सुतरां धनराशिग ! त्वाम् ।
For Private And Personal Use Only