________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८ ) मुनिवृन्दसमानकरं प्रवरं, हृदयेप्सितसिद्धिवितानकरम् । भवभीतिदवाऽनलशान्तिकरं, करदीकृतधर्मरिपुप्रकरम् ॥२॥ अतिमर्दितमोहनकर्मवलं, सुरनाथगणार्चितपत्कमलम् । कृतधर्मरताऽखिलरूढखलं, प्रभया वरयाऽश्चितहस्ततलम्॥३॥ तुलराशिविराजितमारजितं, वृकयोनिभृतं निभृताऽऽत्मवृतम् । गतरागमदं शिवशर्मपदं, शरदिन्दुसमाननवारिरुहम् ॥४॥ कनकोत्तमकान्तसुकान्तिधरं, वरपार्श्वसुपार्श्वजिनप्रवरम् । विनयाञ्चितमानसकोऽहमिह,प्रणमामि मुदाऽमितभावयुजा ॥५॥
श्रीचन्द्रप्रभस्तवनम् ॥८॥
(उपजातिवृत्तम् ) त्वत्पादपद्याऽर्चनतोविधाय, प्राचीनजन्माऽर्जितकर्मराशेः । निःशेषमन्तं भववारिराशेः, प्रयान्ति पारं भवतःप्रभावात् ॥१॥ चन्द्रप्रभ ! त्वां शरणं प्रपद्ये, निर्मिन्नमायाऽतितमःप्रकाण्ड!। सन्तस्तरन्त्येव तव प्रभावा-दनन्यभावेन हि गेयकीर्ते ! ॥२॥ अनन्तकान्तिप्रभवासदाशी, सदाशिवः सौम्यवपुःप्रभावः । चन्द्रप्रभोनिर्मलमानसाय, ददातु शं चन्द्रविभःप्रभुमे ॥३॥ उद्दामचारित्रकलानिधान !, त्वदाननाऽम्भोजविलोकिनोमे । गताऽऽपदुद्भूतमनन्तशम, चन्द्रप्रभ ! प्रौढमहोधिराज ! ॥४॥ स्तोत्वजस्तुत्यगुणप्रकारः, प्रकामसंभूतिविभासमानः । तनोतु सौख्यं समविश्वलोकः, पद्मप्रभोवृश्चिकराशिमा ॥५॥
For Private And Personal Use Only