________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७ )
तस्मावं दुष्टराग-द्विप ! कुरु गमनं देशमन्यं विचिन्त्य, सन्तस्तिष्ठन्ति यत्र चणमपि वसतिर्नाऽसतामेव शस्या ॥ ५ ॥
श्रीपद्मप्रभस्तवनम् ॥ ६ ॥ ( भुजंगप्रयातं वृत्तम् ) प्रधानप्रभाराशिभिर्भ्राजमानः प्रभिन्नातिदुर्दान्तमोहप्रमादः । सुसीमाऽऽत्मजश्रीपतिर्मेऽचनीयः, सदा त्वं सुरेन्द्राऽभिवन्द्य
क्रमाब्जः | १ | स कन्यारव्यराशिं दधानोऽत्र पद्म-प्रभोर्भूतले भूतलोकप्रकाशी । करोतु क्रियाज्ञानरक्ते मदीये, निवासं हृदि श्रेष्ठभावे सदैव |२| मनःपङ्कजं नित्यमेव त्वदीयं, स्वरूपं स्मरत्यक्षयं देव ! यस्य । तमेवाऽतिधन्यं नरं पुण्यवन्तं, त्रिलोकाऽधिनाथाऽत्र जानामि लोके | ३| वरेण्यं शरण्यं त्वदङ्गप्रभावं, प्रकामं स्मराम्यक्षताऽक्षप्रकाण्डैः । कृपाधीश ! पद्मप्रभ ! क्षेमधाम, महायोगिगम्यं मनोवागतीतम् ४ त्वदीयप्रभाभासुरोवासरेशो-जगञ्जीव पद्माकरं सावधानः । सदा सच्चरं स्वक्रियायां विबुद्धं, करोतीशपद्मप्रभ ! क्षोभहारिन् । ५
श्रीसुपार्श्वनाथस्तवनम् ॥ ७ ॥ ( तोटकवृत्तम् )
गुणवन्तमनन्तकलानिचितं, पृथिवीतनुजं तनुतारहितम् । स्वयमेव सदा सुखदानरतं, परमोत्तमरूपविभानिरतम् ॥ १ ॥
For Private And Personal Use Only