________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसुमतिनाथस्तवनम् ॥ ५॥
(स्रग्धरावृत्तम् ) गद्धस्वान्तारविन्दे-ऽनवरतयतना भव्यभावा यदीयं,
ध्यायन्तःपादपद्मा-म्बुजयुगलमिह क्षेमभावं प्रपनाः । सन्तोषस्वादुमोज्यं श्रुतरसनतया स्वादयन्तः प्रकामं,
शुद्धां बुद्धिं प्रदद्या-त्सुमतिजिनवरो-भक्तिराजजनेभ्यः॥१॥ वैमानं भरिमानं प्रवरगुणयुतो-निर्गुणश्रीजयन्तं,
सन्त्यज्य स्फीतकीर्तिः स्थितिमभयकरी योभुवि स्वीचकार। विख्यातो यस्य तीर्थ-ङ्करसुमतिविभो-राक्षसाख्यो गणश्व, तद्ध्यानं सिद्धिकार जनशुभमतिदं केवलं राधनीयम् ॥२॥ तीर्थाधीशः समस्ति क्षपितपररतिर्मेषभूपाऽऽत्मजोमे,
जीमूताभासमानः समसु हृदसुह-न्मानसे मानहीने । तस्माचा द्वेषवन्हे ! प्रशमनमनघो-नेष्यति क्रूरकर्मन् !
सद्यः संसारदावाऽनलगतजनताऽऽ-नन्दसन्दोहदायी ॥३॥ नक्षत्रक्षेत्रवृद्धि-भवति भुवनगा यद्पदाम्भोजलक्ष्म्या,
शान्ता दुर्दान्तभावाः, परमपटुतर-ज्ञानभास्वत्प्रभावात् । योनि संप्राप्त श्राखो-य॑रुचदतिविभां, बर्द्धयन् वृद्धशील
स्तं देवंदेववन्धं सुमतिजिनमहं प्रार्थये प्रार्थनामिः ॥४॥ भ्राजत्सौवर्णवर्णो-गजरिपुतुलनां धारयन्मामकीनेचित्ताऽऽरामे विशाले निवसति सुमतिः सर्वदा सर्वपूज्यः।
For Private And Personal Use Only