________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १० ) इत्थं त्वदीयचरणाऽम्बुजरक्तचित्तस्तिष्ठामि शश्वदखिलेश! तथा कुरुष्व ॥ ५ ॥
श्रीशीतलनाथस्तवनम् ॥ १०॥
( भद्रिका [ललित] छंदः) जयतु शीतलः शान्तभावनो-जनमनोहरोरिष्टनाशकः । अघनिवारको मुक्तिदायको-गुरुगुणः सदा मावितात्मनाम् । शिवशुभाङ्कुरोवृद्धिकारणे, जलधरोपमं विश्वतायिनम् । अखिलसंपदा हेतुमीश्वरं, जिनवरं स्तुवे शीतलं सदा ॥२॥ दृढरथक्षितीन्द्राऽऽत्मनन्दनं, सकलनन्दनं नाकिसंस्तुतम् । नमत देहिनोभूरिभूतये, कलिमलक्षतिर्जायते ततः ॥३॥ सुरतपत्तने निश्चलस्थितं, विदधदईतामीश्वरः सताम् । हृदयपङ्कजे ध्यानकारिणां, शिवकरः स्मृतःशीतल प्रभुः॥४॥ प्रजनि सर्वदा व्याधिहारकं, तव सुदर्शनं मादृशां नृणाम् । जननमृत्युतो नास्ति मेऽधुना,भयमहो? क्षितौ शीतलप्रभो!॥५॥
श्रीश्रेयांसस्तवनम्.॥ ११ ॥
(मन्दाक्रान्तावृत्तम् ) दुष्टादृष्टि-चिरपरिगता स्वात्मनिष्ठाऽतिमत्ता,
गाढव्याप्ता निजबलपरिस्फुर्तितश्चण्डमावा । दूरं सद्यो-व्यपगतवती यस्य दृष्टिप्रभावात् , तं श्रेयांसं शिवसुखकरं नौमि नित्योत्सुकोऽहम् ॥१॥
For Private And Personal Use Only