________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१
जगत्पूज्ययोगनिष्ठ श्रीमद् बुद्धिसागरसूरि
स्मरणाष्टकम् |
विबुधवन्दितं तत्त्ववेदिनं, वृषधुरन्धरं योगपारगम् । समयकोविदं सूरिशेखरं, स्मरत सद्गुरुं बुद्धिसागरम् ॥ १ ॥ क्षुभितदेहिनां संसृतेर्भयाद् - विशद देश नादायिनोद्धतिः । अकृत येन तं सूरिशेखरं, स्मरत सद्गुरुं बुद्धिसागरम् ॥ २ ॥ विमलवाचनां यन्मुखाम्बुजाच्छ्रवणगोचरीकृत्यभावतः । अमरतां गताः सूरिपुङ्गवं, स्मरत तं गुरुं बुद्धिसागरम् ॥ ३ ॥ स्मरणमुत्तमं यस्य भूतले, सुखविधायकं शान्तपावनम् । शरणमङ्गिनां सूरिशेखरं, स्मरत तं गुरुं बुद्धिसागरम् ॥ ४ ॥ समतया मनोवृत्तिरद्भुता - भवदखण्डिता यस्य कोमला । समजनेषु तं सूरिशेखरं, स्मरत सद्गुरुं बुद्धिसागरम् ॥ ५ ॥ चयनमक्षयं शास्त्रसंपदा, विहितमुत्कटं येन धीमता । विकसति स्वयं सर्वदाक्षितौ स्मरत तं गुरुं बुद्धिसागरम् ॥ ६ ॥ विजित कामनः शुद्धमानसः, सततमुन्नतश्रीसुधाकरः । दलितदुर्मदः सूरिशेखरं, स्मरत तं गुरुं बुद्धिसागरम् ॥ ७ ॥ कलिमलाविलोsप्यर्थिनां गण-वरणपङ्कजं यस्य संश्रितः । स तु गतापदः सूरिशेखरं, स्मरत तं गुरुं बुद्धिसागरम् ॥ ८ ॥ सुखनिधिप्रदं स्तोत्रमेतक - त्पठति यो जनो हेमसंस्कृतम् । सुरवरार्चितः पुण्यवानह - र्निशमनल्पधी राजतेतराम् ॥ ९ ॥
For Private And Personal Use Only