________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
श्रीमज्जगद्गुरुविजयहीरसूरीश्वर गुणाष्टकम्
( ललित-भद्रिका वृत्तम् ) विजयहीरकं सरिपुङ्गवं, भवभयापहं तत्वबोधदम् । निखिलदेहिनां शान्तिदायक, स्मृतिपथं नये श्रीजगद्गुरुम् ॥१॥ शिवपथार्थिनं सार्थवाहक, सकलकामदं कर्महारकम् । जिनमताम्बुधौ चञ्चदिन्दुकं, स्मृतिपथं नये श्रीजगद्गुरुम् ॥२॥ तपनतेजसं शान्तभावनं, निकटवर्तिनां तापवारकम् । करुणयाश्रितं कोमलश्रियं, स्मृतिपथं नये श्रीजगद्गुरुम् ॥ ३॥ अकबराधिपो बोधितः क्षणात-शमवताऽवता येन देहिनाम् । मुनिगणार्चितं तं तपस्विन, हृदि विचिन्तये श्रीजगद्गुरुम् ॥४॥ विपदनेकधा दारिताऽऽदराद्-भुविजना घना येन तारिताः । जगति मारणं वारितं तकं, हदि विचिन्तये श्रीजगद्गुरुम् ॥५॥ वदनवारिजे यस्य भास्वरे, जनमनोऽलयो लीनतामगुः । सुरभिसंगतास्तं प्रभाविनं, हृदि विचिन्तये श्रीजगद्गुरुम् ॥६॥ कति विबोधिता भूपतिव्रजाः-जयपथाश्रिता येन सूरिणा। विमलविद्यया तं मुनीश्वरं, हृदि विचिन्तये श्रीजगद्गुरुम् ॥७॥ वितथवादिनां सत्यवादतो-विजितवान्नज यो बुधाग्रणीः । तमजितं जगज्जीवतारकं, हृदि विचिन्तये श्रीजगद्गुरुम् ॥ ८॥ गुरुगुणाष्टकं हेमवज्रिणा, रचितमद्भुतश्रीप्रदायकम् । पठति यो जनः शान्तमानसो-जननमृत्युतोऽसौ विमुच्यते ॥९॥
For Private And Personal Use Only