________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृताऽनेकभव्योद्धतिश्चोत्तमश्रीः
सुधासोदरोक्तिप्रचारः प्रसिद्धः । गुणानां महासागरः सूरिवर्योs
जिताब्धिः सतामिष्टयोगार्थदोऽस्तु ॥१२ ।। निवृत्तिप्रचारप्रवीणैकधीरः,
प्रचुरप्रजाऽधर्मकक्षे समीरः । कुवादिप्रलापप्रभेदैकवीरोऽ
जितान्धिः सतां सूरिरिष्टार्थदोऽस्तु ॥१३॥ परात्मप्रदेशाऽनुरागाऽन्वितानां,
जनानां वितानं सदा पालिताऽलम्। विवेकाङ्गहीनाङ्गिनां बोधदाताऽ--
जिताब्धिः सतां सूरिरिष्टार्थदोऽस्तु ॥ १४ ॥ सुविद्याऽवदातस्वभावः सुविज्ञो
धिया राजितोऽनल्पया दीर्घदृष्टिः । जने जैनतत्वप्रपञ्चप्रणेताs
जिताब्धिः सतां सूरिरिष्टार्थदोऽस्तु ॥१५॥ हेमेन्द्रसागरकृतेयमनन्यभावाद्
शुद्धा स्तुतिर्निजगुरोरखिलार्थखानिः । स्तोतुः प्रपाठकगणस्य च सिद्धिदाऽस्तु,
स्वर्गाऽपवर्गसुखवृद्धिकरी क्रमेण ॥१६॥
For Private And Personal Use Only