________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
गुणाः पूजिता येन सद्भावहेतो
गुरोः शुद्धिमूला हि सद्बुद्धिकेतोः । अतस्तेन निःसीमतत्त्वप्रकाशः,
प्रपन्नस्तमोमोहहारी निराशः ॥७॥ विकासदहस्यप्रवेदी प्रभास्त्र
जिनेन्द्रागमानामित स्वाऽन्यभावः । सुविद्यारतानां मनोमन्दिरस्थोऽ
जिताब्धिः सदा सूरिरिष्टार्थदोऽस्तु ॥८॥ कृताऽनेकधा ग्रन्थना पुस्तकानां,
सुधासोदरस्वर्गिभाषाप्रबन्धात् । स्वदेशे विदेशे प्रचारात्प्रकाम,
प्रबुद्धास्तु तेषां कियन्तो विधिज्ञाः ॥९॥ सुचारित्रिणां सेवनीयक्रमाजः
प्रशान्तस्वभावः सदाराधनीयः । शुभैः साधनैरात्मतत्वैकनिष्ठः,
प्रबोधप्रदानप्रधानप्रभावः ॥ १० ॥ क्षतानिष्टवस्तुप्रयोगः प्रकाम,
प्रयुक्तेष्टसंयोग आत्मानुयोगात् । निदानं सदानन्दताया मुनीन्द्रः,
शुचित्वं दधानो विशुद्धात्मभावात् ॥११॥
For Private And Personal Use Only