________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रविशारदश्रीमद्-अजितसागरसूरि
स्मरणाष्टकम् । जगति शर्मदं धर्मनायक, जनिमतां सदा क्षोभहारकम् । नमत भावतो भव्यमानवा-अजितसागरं सूरिशेखरम् ॥१॥ मृदुवचस्ततिश्रेणिराजितं, मुखसिताम्बुजं भ्राजतेतराम् । जनमनोहरं दिव्यशान्तिदं. भुवि नमाम्यहं सूरिपुङ्गवम् ॥२॥ जनगणाऽचितं सत्त्वतारकं, गुरुदयाकरं तन्वदेशकम् । कलिमलापहं क्लेशवारकं, शुभतपःक्रियाध्यानधारकम् ॥३॥ विविधवाचनादानकारकं, विकटकर्मणां मूलहारकम् । भवभवाऽतिहं श्रीगुरुं जन ! अजितसागरं सूरिमानम ॥४॥ जननमृत्युतो मोचनं नवै, गुरुकृपां विना देहिनामिह । गुरुपदाश्रिता ये भवाम्बुधिं, भुवि तरन्ति ते निर्मलश्रियः ॥५॥ उपकरोत्यसौ सर्वदा गुरु-र्वचनविस्तरात्सर्वदेहिनाम् । गुरुमिमं प्रभुं स्तोतुमक्षमः ! शिवसुखकर स्वर्गसिद्धिदम् ॥ ६॥ विजितकामनं दमितमानसं, पतितपावनं शान्तभावनम् । विदितसन्मतं शुद्धचेतसं, पजत सद्गुरुं सूरिशेखरम् ॥ ७ ॥ दुरितवार्दलश्रेणिमारुतं, सुरगणार्चितं भूरिभावतः । नमत सर्वदा मानवोत्तमाः ! अजितसागरं सूरिशेखरम् ॥ ८ ॥ विमलभावतो गीतमष्टकं, निजगुरोरिदं नम्रचेतसा । शिवदयानिधेहेमसागर-जयतु शान्तिदं सर्वभूतले ॥९॥
For Private And Personal Use Only