________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५
गुणिनस्तव कीर्तनात्सदा, शुभधाम प्रति यान्ति यत्नतः । किमहं न तवान्तिकस्थितः, कलयिष्यामि विभूतिमत् पदम् ॥२७॥ किमपेक्ष्य जना इमेऽर्थिनः, परिधावन्ति पिपासिता इव । अबुधा भवता समर्थितं, नहि जानन्ति तदेवकारणम् ॥ २८ ॥ अबुधा अपि केचनस्तव-स्मरणाद् भावतया भवाम्बुधिम् । तव तेरु रनन्यसाधनाः, प्रभुभक्तिर्न करोति किं नृणाम् ।। २९॥ परिणामसुखप्रदे भव-चरणाब्जे रतिरस्तु मे सदा । इतरन्न मया समीक्ष्यते, भवपाथोधिनिपातनक्षमम् ॥३०॥ क्षणभङ्गुरदेह उच्यते, तदलं तत्प्रतिबन्धनेन मे। सुखदात्मनिबन्धनं सदा, रुचये मेऽस्तु दिवानिशं प्रभो।॥३१॥ तव मूर्तिविलोकनेन मे, नयनं निवृतिमेति नाऽन्यथा । हृदयश्च मदीयमुत्सुकं, गुणगाने भवभेदिनः प्रभो! ॥३२॥ श्रवणौ च सदा विभूषितौ, सततं तत्त्वविधारणेन मे (ते)। किमिहान्यविभूषणैः परै-रतिभाराय मतानि तानि वै ॥ ३३ ॥ करयुग्ममिदं तवाहणां, कुरुते चेत्सफलं निगद्यते । कुत एव सकामकर्मणि, सततोद्योगपरं प्रशस्यते ॥३४॥ विधिकल्पितमेव शर्मद, श्रुतधर्मस्य निषेवणं वरम् । त्वदनुग्रह एव केवलः, सुखसंपत्ति विधायकः प्रभो! ॥ ३५ ॥
For Private And Personal Use Only