________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ક
Acharya Shri Kailassagarsuri Gyanmandir
त्वदलङ्कृतमेतकज्जगत्, प्रविभाति प्रथुलश्रियोर्जितम् ।
प्रभुता प्रथिता तव प्रभो ! क्षपितक्षोभपरम्परा नृणाम् ॥ १८ ॥ विधिनैव तवार्हणाऽङ्गिनां, शुभभावेन विभो ! प्रकल्पिता । परिपूरयते मनोरथान्, बहिरन्तश्च विशुद्धिदायिनी जिननाथ ! तत्र क्रमाब्जयोः पतितं मां परिपालयोत्सुकम् । नहि चित्रमिदं जनिष्यति, परकार्येकरतस्य साम्प्रतम् ॥ २० ॥ कलिकालकरालदुःखतः, कुरु मां दूरतरं जिनेश्वर ! | नहि शक्तिरिहास्ति कस्यचिद् भवतः कार्यमिदं सुनिश्चितम् ॥ २१ ॥ जिननाथ ! तव प्रभावतो - बहवः सिद्धपदं हि भेजिरे । मम कि नहि तत्र योग्यता, शुभभक्ति तत्र कुर्वतोऽधुना ॥ २२ ॥ मम पूर्वभवानुसारतो - जनिता दोषगणास्त्वया प्रभो ! | न मनागपि मानसे शुभे, स्मरणीयाः कृपया कृपानिधे ! || २३ || विदधातु सुखं सुखार्थिनो-मम लोकोत्तरशर्मसेवधे ! जिननाथ ! भवन्तमन्तरा, नहि याचेऽन्यमनन्यरागतः ॥ २४ ॥
॥ १९ ॥
विषमस्थितिमानहं प्रभो ! समतासद्मनि त्वं सदा स्थितः । अत एव ममोपरि क्षमा, करणीया भवता भवापहा 11 34 11
भववारिधिरेष दुस्तर - स्तवभक्त्योज्झितकर्मणां नृणाम् | गुणिनां स तु गोष्पदायते, गुणदोषैकवशं शुभाशुभम् ॥ २६ ॥
For Private And Personal Use Only