________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૩
बहवो मुनयस्त्वयोद्धृताः, करुणावारिनिधे ! त्वदाश्रिताः । भवपारगतं कुरुष्व मा - मपरं नैव विलोकये क्षमम्
॥ ९ ॥
तव पादसरोरुहं प्रभो ! प्रणमाम्यप्रतिमप्रभावदम् । जगदण्डमिदं त्वदाश्रितं, प्रतिजानेऽक्षरमात्मविद्यया ॥ १० ॥ भवतापहरस्त्क्या विना, भुवनेऽस्मिन्नहि दृश्यतेऽपरः । भव मेऽक्षयशर्मदायक - स्त्वमिदानीं न विलम्बनं कुरु ॥ ११ ॥ क नु यामि विलोकयामि कं, क्व च तिष्ठामि नमामि कं विभो ! | परिपालय मां कृपानिधे ! भवकान्तारभयाकुलं सदा ॥ १२ ॥
,
शरणं जिनराज ! तावकं शरणं मेऽस्तु सदा शिवप्रदः । शरणं गिरिराजभूषणं, शरणं नान्यदहं समाश्रये
॥ १३ ॥
शरणं भवतः शुभावहं, सुमतिः कः प्रविहाय संभजेत् । विफलं भवदायकं प्रभो !, विविधापत्तिनिदानमन्वहम् ॥ १४ ॥ सुरपादप उन्नतिप्रदः प्रददात्येव मनोविकल्पितम् । जिनकल्पतरुस्त्वनल्पद - स्त्रिषु लोकेषु मनोतिगं हितम् । ||१५||
For Private And Personal Use Only
॥ १६ ॥
अथवा किमु याचनेन मे, प्रभुभक्तिर्जनयत्यसंशयम् । सफलं जनुरङ्गिनामिह, क्षपित क्रूरकषायमण्डली विदितं तव वर्त्तनं विभो !, परमार्थैकपरायणं जने । किमु नाऽस्मि कृपाकटाक्षतः, समवेक्ष्यः समयेक्षिणा त्वया ॥ १७ ॥