________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीजिनेन्द्रस्तोत्रम् ॥ ( वैतालीयवृत्तम् )
॥ १ ॥
जय तीर्थपते ! दयानिधे ! सुरसार्थाधिपसेवितक्रम ! | कलिकालजदोषहारक ! सदसदविचारदायक ! सदुपायविचारशून्यतां, भजमानो हृदि पीडितो भृशम् । शरणं ननु यामि तावकं, जिनदेव ! क्षुभितैकपालक ! ॥ २ ।। हृदि नाशय मे स्थितं तमो - रविणाच्छेद्यमिदं गुणापहम् । दिननाथविभा विभो ! कुत - स्तव रेखांशमपि क्षितौ भजेत् ॥ ३॥
भगवन् ! पदवीं तवेक्षितुं प्रभुरस्येव न चर्मचक्षुषा । कृपया प्रविलोकयस्व मां दिश मे दीव्यविकासमीक्षणम् ॥ ४ ॥
9
स्मरणं तव पावनं प्रभो ! किमु वाच्यं स्तवनेन संयुतम् । मधुरा प्रकृतिर्हि पायसी, अधिका शर्करया भवेन्न किम् ? ॥ ५ ॥ विषमोऽपि समो भवेत्प्रभो ! तव पादान्तिकमागतो जनः । विषवानपि चामृतायते भवरागोऽपि विरागतां श्रयेत् ॥ ६ ॥
"
हृदये स्मृतिमात्रतो हितं कुरुषे त्वं किल कल्पपादपः । भवतारक ! वीक्षितं तव क्रमयुग्मं वितरत्यभीष्टताम् ॥ ७ ॥ सहसा दययोज्झितः शठो - विनिगृह्णाति न मां यमः प्रभो ! अभयं कुरु तावदेव मे, गतजीवस्य सृतं महोषधैः
For Private And Personal Use Only
|| 2 ||