________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१
Acharya Shri Kailassagarsuri Gyanmandir
कालः क्रीडति गच्छत्यायु-भ्रम्यसि किं भवदावे व्यर्थम् ? | चेतय चेतन ! चित्ते चिन्तय, भवपाथोधिं दुस्तरमेतम् ॥
भज महा० ॥। ११ ॥
दन्ताश्चलिताः पलिताः केशा - गतिरप्याशु स्खलिताऽशेषा । तदपि न तृष्णा दासी क्षीणा, सत्याऽसत्यविवेकविहीना || भज महा० ॥ १२ ॥
द्रव्यं दुःखनिदानमशेषं, भावय संसृतिदुःखमनन्तम् । मूढमते ! त्वं निर्भयचेताः, शेषे किं ज्वलदग्न्यागारे ||
भज महा० ।। १३ ।।
शास्त्रमधीतं ध्येयं ध्यातं गीतं गानं दानं दत्तम् । शीलं शीलितमक्षतमेत-च्छान्तिर्नोचेद् व्यर्थमशेषम् ||
LAKARA
भज महा० ।। १४ ।।
क्लेशग्रस्तं जगदतिकष्टं, सृष्टं स्वार्जितकर्मविपाकाद् । स्वात्मध्यानरतो भव विद्वन् ! येन तदन्तं द्रक्ष्यसि नूनम् ||
भज महा० ॥ १५ ॥
For Private And Personal Use Only