________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भववारिधिरस्ति दुस्तर-स्तवभक्तिं न विजानते यके । परदोषगृहीतचेतसां, बत तेषां परभावभेदिनीम् ॥३६॥ न भवार्णवमीश ! दुस्तरं, तब मन्ये चरणाम्बुजं श्रितः। कुत एव भयं महात्मनां, विषयव्याधिविमुक्तचेतसाम् ॥ ३७॥ प्रपठिष्यति भावतः स्तवं, रचितं हेमपयोधिनाऽनिशम् । य इदं कृपया कृपानिधेः, स इयर्येव विभूतिमक्षयाम् ॥ ३८ ॥ भवभीतिमभीतमानवः, परिहायैव निजेष्टसेवया । लभतेऽन्तकमूर्ध्नि धारयन्, पदमुच्चैःपदसम्पदं सदा ॥३९॥ सभयो विभयः प्रजायते, धनरिक्तश्च धनीयते यतः ।। विभवेच्छरजस्रवैभवः, सुखकामः सुखसम्पदान्वितः ॥४०॥ परितुष्यति येन केन चित, स्तवनेनाऽऽशु जिनेश्वरप्रभुः। इति चेतसि निश्चयन्नरो-विधुरं नैव कदापि पश्यति ॥४१॥
गुरुजयन्तीस्तोत्रम्।
( मुजङ्गप्रयातवृत्तम् ) जयन्ती मुनीनां जने जायमाना
ममानानि सौख्यानि संपादयन्तीम् । सदा कुर्वते भव्यभक्तिप्रभावाल्लभन्ते जयं तद्गुणोत्कीर्तनात्ते
For Private And Personal Use Only