________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १९८) भव्यानां भवविघ्नवारदलनः सद्भक्तिभाजां तृणा___ माद्यस्तीर्थकृतां सदा विजयते विज्ञातनैकान्तकः ॥५॥ केचिद्यत्र निजश्रियाऽनुकलितां प्रख्यापयन्तः शुभां,
संपत्ति विततोष्णकालसमये तिष्ठन्ति शान्तिप्रियाः । तूष्णीं भावजुषोऽन्य आत्मविभवाः सञ्चिन्तयन्ति प्रभु, ___ सर्वेषां हितदायकः स विबुधश्रेणिश्रिया राजितः ॥६॥ तीर्थानि प्रचुराणि यत्र विदितान्यन्यानि राजत्लभा
ण्यक्षोभ्याणि सुराऽसुरेन्द्रमहितान्यभ्रस्पृशत्सानुनि । सोऽयं दीव्यविभाप्रसारितशिरा विभ्राजते भारते,
श्रीमानर्बुदभूधरो गिरिवरः संसेवनीयो बुधैः ॥७॥ दीव्यानन्दमयः सदा सुखमयः सर्वत्र शान्तिप्रदो
भव्याकारतया सुभावितरमोभव्यात्मनां भावतः । कल्पद्रुपमितप्रभावकलितोऽन्यत्किं ब्रुवेऽस्याऽधिकं,
श्रीमानबुंदभूघरोऽस्ति विदिता सर्वोपमो भारते ॥८॥
श्रीआदिजिनस्तवनम्। शान्ताकारतया मुखाम्बुजविभा विभ्राजते भासुरा,
भव्यानां शमदायिनी शशिनिभा यस्याऽक्षयार्थप्रदा । तं भक्ताऽभयदायकाऽमरतरं देवाऽसुरैः संस्तुतं,
भूभूषाऽर्बुदभूषणं भवभिदं नौम्यादिनाथं मुदा ॥१॥
For Private And Personal Use Only