________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १९९) तीर्थानां प्रथमप्रवृत्तिजनकं भूभामिनीस्वामिना
माद्यं विश्वविकासकारणधुरां वोढारमादिक्षणे । दीव्याऽऽनन्दविभाविभावितधराधापानमुच्चश्रियं,
भूभूषाऽर्बुदभूषणं भवभिदं नौम्यादिनाथं मुदा ॥२॥ धन्योऽयं गिरिरर्बुदो गिरिगणे यत्पादपङ्केरुह
द्वन्द्वेनाहितसानुरुत्तमजनध्यानाधिरूढश्रिया । तं तीर्थीकृतभूतलं भुवि नृणामुद्धारकं भाविनां,
भूभूषाऽर्बुदभूषणं भवभिदं नौम्यादिनाथं मुदा ॥ ३ ॥ विभ्राजन्मुकुटप्रभाभरनमन्नाकीश्वरमार्थितं,
भव्यद्धिप्रमिते सुधाधवलिते धाम्नि स्वयं संस्थितम् । वन्दारुपथुकर्मकन्ददलने दत्तैकदृष्टिक्षणं,
भूभूषाऽर्बुदभूषणं भवभिदं नौम्यादिनाथं मुदा ॥४॥ निर्मायं निरयक्षितिक्षयकर निर्माननिर्मत्सरं,
निष्कामं कमनीयकान्तिकलितं निर्धतकर्मावलिम् । निदोष निररिप्रकाण्डममलं निर्मथनाथोपमं,
भूभूषाऽबुदभूषणं भवभिदं नौम्यादिनाथं मुदा ॥५॥ यो ध्यानं शुभमानसौकसि शुभं विस्तारयत्यञ्जसा, ___ दासत्वं दलयत्यनल्पभयदं शान्ति सदा यच्छति । तं भूरि श्रियमातनोति विपदं निर्मूलयत्यङ्गिनां,
भूभूषाऽर्बुदभूषणं भवभिदं नौम्यादिनाथं मुदा ॥ ६ ॥
For Private And Personal Use Only